SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १प्रज्ञापनापदे श्ल|क्ष्णपृथ्वी. (सू. १४) ॥२६॥ रतः श्लक्ष्णास्ते च ते बादरपृथिवीकायिकाश्च श्लक्ष्णबादरपृथिवीकायिकाः, अथवा श्लक्ष्णा च सा बादरपृथिवी च २ सा कायः-शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायाः त एव खार्थिकेकप्रत्ययविधानात् श्लक्ष्णबादरपृथिवीकायिकाः, चशब्दो वक्ष्यमाणखगतानेकभेदसूचकः, खरा नाम पृथिवीसङ्घातविशेष काठिन्यविशेषं चापन्ना तदात्मका जीवा अपि खरास्ते च ते बादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण समासः, चशब्दः खगतवक्ष्यमाणचत्वारिंशद्भेदसूचकः ॥ से किं तं सण्हबायरपुढविकाइया?, सण्हवायरपुढविकाइया सत्तविहा पन्नता, तंजहा-किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुकिल्लमत्तिया पाण्डुमत्तिया पणगमत्तिया, सेत्तं सहबादरपुढविकाइया । (मू. १४) । अथ के ते श्लक्ष्णवादरपृथिवीकायिकाः, सूरिराह-श्लक्ष्णवादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः, तदेव सप्तविधत्वं तद्यथेत्यादिनोपदर्शयति, कृष्णमृत्तिकाः-कृष्णमृत्तिकारूपा एवं नीलमृत्तिका लोहितमृत्तिका हारिद्रमृत्तिका शुक्लमृत्तिकाः, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तं, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा, तदात्मका जीवा अप्यभेदोपचारात् पाण्डमृत्तिकेत्युक्ताः, 'पणगमट्टियत्ति' नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलापरपर्यायः पङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, निगमनमाह-सेत्तं सहबायरपुढविकाइया, सुगमम् ॥ ॥२६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy