________________
हरयseeeeeeeeaxeeeek
स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत्-"सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां । ते पर्याप्ता "अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपखगतभेदद्वयसूचकः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्साः अपर्याप्साश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनखगतभेदद्वयसूचकः, तथाहि-द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्तास्तद्यथा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो नियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथचावश्यं निवर्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारमाह-'सेत्त' मित्यादि, त एते सूक्ष्मपृथिवीकायिकाः॥ तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
से किं तं बादरपुढविकाइया?, बादरपुढविकाइया दुविहा पन्नत्ता, तंजहा-सण्हबादरपुढविकाइया य खरबादरपुढविकाइया य (मू.१३) | अथ के ते बादरपृथिवीकायिकाः१, सूरिराह-बादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-श्लक्ष्णबादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाच, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचा
Jain Education
For Personal & Private Use Only
mainelibrary.org