SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. ॥२८५॥ लेश्यापरिणामः सयोगिकेवलिनमपि यावद्भवति, यतो लेश्यानां स्थितिनिरूपणावसरे लेश्याध्ययने शुक्ललेश्याया १३ परिजघन्या उत्कृष्टा च स्थितिः प्रतिपादिता-"मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणाणामपदं नायचा सुक्कलेसाए ॥१॥” इति, सा च नववर्षोनपूर्वकोटिप्रमाणा उत्कृष्टा स्थितिः शुक्ललेश्यायाः सयोगिकेवलिन्युपपद्यते, नान्यत्र, कषायपरिणामस्तु सूक्ष्मसम्परायं यावद्भवति, ततः कषायपरिणामो लेश्यापरिणामाऽविनाभूतो लेश्यापरिणामश्च कषायपरिणाम विनापि भवति, ततः कषायपरिणामानन्तरं लेश्यापरिणाम उक्तः, नत लेश्यापरिणामानन्तरं कषायपरिणामः ४, तथा लेश्यापरिणामो. योगपरिणामात्मको 'योगपरिणामो लेश्या' इति| वचनात् , उपपादयिष्यते चायमर्थो लेश्यापदे सविस्तरमतो लेश्यापरिणामानन्तरं योगपरिणाम उक्तः ५ संसारिणां च योगपरिणतानामुपयोगपरिणतिस्ततो योगपरिणामानन्तरमुपयोगपरिणामः ६ सति चोपयोगपरिणामे ज्ञानपरिशणाम इति तदनन्तरं ज्ञानपरिणाम उक्तः ७ ज्ञानपरिणामश्च द्विधा-सम्यग्ज्ञानपरिणामो मिथ्याज्ञानपरिणामञ्च, तौ च न सम्यक्त्वमिथ्यात्वव्यतिरेकेण भवत इति तदनन्तरं दर्शनपरिणाम उक्तः ८ सम्यग्दर्शनपरिणामे च जीवानां जिनवचनाकर्णनतो नवनवसंवेगाविर्भावतश्चारित्रावरणकर्मक्षयोपशमतः चारित्रपरिणाम उपजायते ततो दर्शनपरिणामानन्तरं चारित्रपरिणाम उक्तः ९ चारित्रपरिणामवशाचे वेदपरिणामं प्रलयमुपनयन्ति महासत्त्वातत. १ जघन्या मुहूर्तान्तरेव भवति उत्कृष्टा पूर्वकोट्येव । नवभिर्वषैरूना ज्ञातव्या शुक्ललेश्यायाः (स्थितिः) ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy