SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ कश्चिदेवं वदति-अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽप्येपोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७, तथा प्रत्येकवनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा-कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा परि| गृह्यते, स मिश्रितो यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्तमान एव वदति-उत्तिष्ठ रात्रिर्यातेति, रात्रौ वा वर्तमानायामुत्तिष्ठोद्गतः सूर्य इति ९, तथा दिवसस्य रात्रेवा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति-चल मध्याह्नीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथा-'आमंतणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ 02020009087800000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy