________________
'कइ णं भंते ! संठाणा पं० ' इत्यादि सुगमं, परिमण्डलादीनां संस्थानानां खरूपस्याधः प्रथमपद एव सविस्तरं प्ररूपितत्वात् शेषं पाठसिद्धं, नवरं 'परिमंडले णं भंते! संठाणे संखेज्जपएसिए किं संखेज्जपएसोगाढे पुच्छा, गो० ! संखेज्जपएसोगाढे नो असंखेजपएसोगाढे नो अणतपएसोगाढे' इति यस्मात् तस्य सङ्ख्येया एव प्रदेशास्ततः कथमसङ्ख्येयेष्वनन्तेषु वा प्रदेशेष्ववगाहते इति, असङ्ख्यातप्रदेशात्मकमनन्तप्रदेशात्मकं वा पुनः परिमण्डलसंस्थानं सङ्ख्येयेष्वसङ्ख्येयेषु वा प्रदेशेष्ववगाहते विरोधाभावान्नानन्तप्रदेशेषु असङ्ख्यातप्रदेशात्मकस्यानन्तेषु प्रदेशेष्ववगाहनाविरोधात् अनन्तप्रदेशात्मकस्यापि विरोध एव, यस्माल्लोकोऽप्यसङ्ख्यातप्रदेशात्मक एव, लोकादन्यत्र च पुद्गलानां गत्यसम्भवः, तस्मादनन्तप्रदेशिकमप्यसङ्ख्येयेषु प्रदेशेष्ववगाहते नानन्तेषु, एवं वृत्तादीन्यपि संस्थानानि प्रत्येकं भावनीयानि सङ्ख्यातप्रदेशा सङ्ख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थान चरमाचरमादिचिन्तायां निर्वचनसूत्राणि रत्नप्रभाया इव प्रत्येतव्यानि, अनेकावयवाविभागात्मकत्वविवक्षायामचरमं च चरमाणि चेति निर्वचनं प्रदेशविवक्षायां चरमान्तप्रदेशाश्चाचरमान्तप्रदेशाश्च । सम्प्रति सङ्ख्यातप्रदेशस्य सङ्ख्यातप्रदेशावगाढस्य परिमण्डलादेश्चरमाचरमादिविषयमल्पबहुत्वमभिधित्सुराह - 'परिमंडलस्स णं भंते!' इत्यादि, सुगमं नवरं द्रव्यार्थताचिन्तायां 'चरमाणि संखेजगुणाई' इति सर्वात्मना परिमण्डलसंस्थानस्य सङ्ख्यातप्रदेशात्मकत्वात्, असङ्ख्यात प्रदेशस्या सङ्ख्यातप्रदेशावगाढस्याल्पबहुत्वं रत्नप्रभाया इव भावनीयं, अनन्तप्रदेशकस्याप्यसङ्ख्यातप्रदेशावगाढस्य, नवरं 'सङ्क्रमे अनन्तगुणा' इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org