SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ से सम्मम्मिादयो भवखभावत एव न सम्यग्दर्शनादिकं यथावत्प्रतिपत्तुं शक्यन्ते. ततो न तेषां निर्वाणसम्भवः. स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च-भुज-18 परिसप्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात , ततीयां यावत्पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति.तन्नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम् , आह च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः॥१॥" तथा च सति सिद्धं स्त्रीपुंसानामधोगतिवैषम्येऽपि निर्वाणं समं, यदप्युक्तम्-'अपि च यासां वादलब्धावित्यादि' तदप्यश्लीलं, वांदविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च-"वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति॥१॥" अपि च-यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत् , यथा जम्बूयुगादारात् केवलज्ञानाभावो, न च प्रतिपाद्यते वापि स्त्रीणां निर्वाणाभाव इति,तस्मादुपपद्यतेस्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । तथा पुंलिङ्गे-शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा खलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते खलिङ्गसिद्धाः,तथाऽन्यलिङ्गे-परिव्राजकादिसम्बधिनि वल्कलकाषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो Jain Education Lonal For Personal & Private Use Only W inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy