________________
श्चतुर्णाकाशप्रदेशेष्वेवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थे तृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, स्थाना-,तदा आद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्चरम इति द्वौ चरमौ द्वितीयप्रदेशावगाढी द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव पट्रप्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, स्थापना-तदा आद्यन्तप्रदेशावगाढौ चरमो मध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यो, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, यदा स एव पटूप्रदेशात्मकः स्कन्धः पञ्चसु प्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चतुर्वाकाशप्रदेशेषु समश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः, स्थापना-, तदा आद्यन्तप्रदेशवतिनौ चरमौ मध्यप्रदेशद्वयवर्तिनी द्वावचरमौ विश्रेणिप्रदेशस्थ एकोऽवक्तव्यः, षड्रविंशतितमः चरमौ चाचरमौ चावक्तव्यौ च, स चैवं-यदा स षट्प्रदेशकः स्कन्धः षट्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेस्थापना-तदा आद्यन्तप्रदेशावगाढौ द्वौ चरमौ द्वौ मध्यप्रदेशावगाढावचरमौ द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढाववक्तव्याविति । 'सत्तपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनमाह-गोयमा! सत्तपएसिए णं खंधे सिय चरमे नो अचरमे' इत्यादि, इह द्वितीय चतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव
eeeeeeeeeeeeeeeeeeee
dan Education International
For Personal & Private Use Only
www.jainelibrary.org