________________
कणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत् , न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा चस्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात् ,न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितमीशते. नापि शीतकालादिषु व्यग्रदशायां खाध्या| यादिकं कर्तु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभञ्जाना न ताः परिग्रहवत्यः, अथोच्येत-सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं,परंन तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति,किन्तु प्रकप्राप्तम् ,अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्रातिप्रसक्तिः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निवाणमिति, तदप्ययुक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्थाभावात् , न खलु सकलदेशकालव्याप्त्या स्त्रीषु, रत्नत्रयप्रकर्षासम्भवग्राहकं प्रमाणं विज़म्भते, देशकालविप्रकृष्टेष प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति,यथेदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः-खभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन । सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽनुमीयते, तदयुक्तमुक्तं, युक्तिविरोधात्, तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमयभावी, अयोग्यवस्था चास्मादृशामप्रत्यक्षा, ततः कथं विरोधगतिः, न हि अदृष्टेन सह विरोधःप्रतिपत्तुं शक्यते, मा प्रापत्पुरुषेष्वपि प्रसङ्गः, ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेना
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org