SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. १प्रज्ञापनापदे अनन्तरसि प्रज्ञा. (सू. ७) ॥२०॥ 8 ततस्तस्मिन् स्त्रीलिङ्गे वर्तमानाःसन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाम्बराः-'न स्त्रीणां निर्वाण'मिति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् , तत्प्रतिषेधस्य युत्तया अनुपपन्नत्वात् ,तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि 'सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात् (तत्त्वार्थे अ०१ सू०१), सम्यग्दर्श. नादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च पडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलङ्कं संयम, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव न तासां मोक्षसम्भवः १, स्यादेतत्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा, न पुनश्चारित्रं, संयमाभावात, तथाहि-स्त्रीणामवश्यं वनपरिभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यकत्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोपजायते, ततोऽवश्य ताभिवेत्रं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनम्, सम्यक सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहो वुत्तों' इतिवचनात् , तथाहिमूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्साधोस्तुपार। १ आशाम्बरकृतगोमटसारे-अडयाला पुंवेया, इत्थीवेया हवन्ति चालीसा । वीस नपुंसकवेया, समएणेगेण सिज्झन्ति ॥ १ ॥ ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy