SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ एकैकं चतसृषु दिक्षु द्वे द्वे विदिविति, द्वादश चाष्टभ्यो न द्विगुणानि न त्रिगुणानि च, किन्तु विशेषाधिकानि, | तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकालोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि, तथाहि — लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टौ एकमचरमखण्डमित्युभयमीलने नव, अलोकस्यापि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशभ्यो न द्विगुणा नापि त्रिगुणा किन्तु विशेषाधिकेति अलोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि । प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्ड सत्कानामेव प्रदेशानां भावात्, तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽपि लोकस्य अचरमान्तप्रदेशा असङ्ख्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यतिप्रभूतत्वात्, तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशाः समुदिता विशेषाधिकाः, कथमिति चेत्, उच्यते, इहा लोकस्याचरमान्तप्रदेशराशौ लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च प्रक्षिप्यन्ते, ते च | सर्वसङ्ख्ययाऽप्यसङ्ख्येया (Sसंख्यया) श्वानन्तराश्यपेक्षयाऽतिस्तोका इति प्रक्षेपेऽपि तेऽलोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव । एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिभावनीयं, नवरं लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्ख्येयगुणा इति, लोकस्य किल चरमाणि खण्डान्यष्टौ, एकैकस्मिंश्च खण्ड Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy