________________
कातिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियाणां त्वेता अव्यक्तरूपा अवगन्तव्याः, नैरयिकसूत्रे I
'ओसन्नकारणं पडुच भयसन्नोवउत्ता' इति, तत्रोत्सन्नशब्देन बाहुल्यमुच्यते कारणशब्देन च बाखं कारणं, ततोऽयमर्थःबाह्यकारणमाश्रित्य नैरयिका बाहुल्येन भयसझोपयुक्ताः, तथाहि-सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकायःकवल्लीशक्तिकुन्तादीनि भयोत्पादकादीनि, 'संतइभावं पडुच' इति इहानन्तरोऽनुभवभावः सन्ततिभाव उच्यते, तत आन्तरमनुभवभावमपेक्ष्य नैरयिका आहारसज्ञोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि । अल्पबहुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि चक्षुर्निमीलनमात्रमपि न सुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना संतप्यमानशरीराः, उक्तं च-"अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसंपञ्चमाणाणं ॥१॥" ततो मैथुनेच्छा नैतेषां भवतीति, यदि परं क्वचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला इति पृच्छासमये स्तोका मैथुनसज्ञोपयुक्ताः, तेभ्यः सङ्ख्येयगुणा आहारसज्ञोपयुक्ताः, दुःखितानामपि प्रभूतानां प्रभातकालं चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसज्ञोपयुक्तानां संभवात् , तेभ्यः सङ्ख्येयगुणाः परिग्रहमजोपयक्ताः. आहारेच्छा हि देहार्थमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालावस्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसज्ञोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः सङ्ख्येयगुणाः, १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नैरयिकाणामहर्निशं पच्यमानानाम् ॥ १॥
in?" तोतं च- "अच्छिनिमा लजपर्निमीलनमात्रमापवत्ता
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org