________________
SSSSSSSSSSDases
सावस्थायां तद्योग्यविशुद्धभावात् , उत्कृष्टोऽप्यवधिर्भावतश्चारित्रिणः, ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजघन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवति ततोऽपर्याप्तावस्थायामपि तस्य संभवात् अजघ-18 न्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः, स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजघन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असङ्ख्येयवर्षायुषामवधेरसंभवात् , सङ्ख्येयवर्षायुषां च त्रिस्थानपतितत्वात् , जघन्यमनःपर्यवज्ञानी उत्कृष्टमनःपर्यवज्ञानी अजघन्योत्कृष्टमनःपर्यवज्ञानी च स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनःपर्यायज्ञानसद्भावात् , चारित्रिणां च सङ्ख्येयवर्षायुष्कत्वात् , केवलज्ञानसूत्रे तु 'ओगाहणट्टयाए चउट्ठाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहिकेवलिसमुद्घातगतः केवली शेषकेवलिभ्योऽसङ्ख्येयगुणाधिकावगाहनः, तदपेक्षया शेषाः केवलिनोऽसङ्ख्ये यगुण-1॥ हीनावगाहनाः, स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति स्थित्या त्रिस्थानपतितत्वं, सङ्ख्येयवर्षायुष्कत्वात् ॥ व्यन्तरा यथाऽसुरकुमाराः, ज्योतिष्कवैमानिका अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः, एतच्च प्रागेव भावितं । उपसंहारमाह-[ग्रन्थाग्रं ५००.] 'सेत्तं जीवपजवा' एते जीवपर्यायाः। सम्प्रत्यजीवपर्यायान् पृच्छतिअजीवपजवा णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-रूविअजीवपज्जवा य अरूविअजीवपजवा य, अरूविअजीवपजवा णं भंते ! कइविहा पन्नत्ता ?, गोयमा ! दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मत्थिकायस्स
Jain Educati
o nal
For Personal & Private Use Only
www.jainelibrary.org