________________
POSocesseeeeee
वानां भव्यत्वात् ८७ तेभ्यः सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण सूक्ष्मबादरनिगोदजीवराशावेव प्राप्यन्ते नान्यत्र अन्येषां सर्वेषामपि मिलितानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात्, अभव्याश्च युक्तानन्तकसंख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किञ्चिन्मात्राः भन्याश्च प्रागभव्यपरिहारेण चिन्तिताः इदानीं तु बादरसूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः ८८ तेभ्यः सामान्यतो वनस्पतिजीवा विशेषाधिकाः, प्रत्येकशरीराणामपि वनस्पतिजीवानां तत्र प्रक्षेपात् ८९ तेभ्यः सामान्यत एकेन्द्रिया विशेपाधिकाः, बादरसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ९० तेभ्यः सामान्यतस्तिर्यग्योनिका विशेषाधिकाः, पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यकपञ्चेन्द्रियाणामपि तत्र प्रक्षेपात् ९१ तेभ्यश्चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्ट्यादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टयः, चातुर्गतिकमिथ्यादृष्टिचिन्तायां चासंख्येया नारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्रजीवराश्यपेक्षया चतुर्गतिकमिथ्यादृष्टयश्चिन्त्यमाना विशेषाधिकाः ९२ तेभ्योऽप्यविरता विशेषाधिकाः, अविरतसम्यग्दृष्टीनां तत्र प्रक्षेपात् ९३ तेभ्यः सकषायिणो |विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् ९४ तेभ्यः छमस्था विशेषाधिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् ९५ तेभ्यः सयोगिनो विशेषाधिकाः, सयोगिकेंवलिनामपि तत्र प्रक्षेपात् ९६ तेभ्यः संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ९७ तेभ्यः सर्वजीवा विशेषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ९८ ॥
इति श्रीमलयगिरिसूरिवर्यविरचितायां प्रज्ञापनावृत्तौ तृतीयं पदं समाप्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org