________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥१६७॥
छ्येयलोकाकाशप्रदेशराशिप्रमाणा उक्तास्तथाऽपि लोकासङ्ख्येयत्वस्यासङ्ख्येयभेदभिन्नत्वाद् इत्थमल्पबहुत्वमभिधीयमानमुपपन्नं द्रष्टव्यं, तेभ्योऽभवसिद्धिका अनन्तगुणाः जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ तेभ्यः प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ तेभ्यः सिद्धा अनन्तगुणाः ७६ तेभ्योऽपि बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः ७७ तेभ्योऽपि सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरपर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ७८ तेभ्यो बादरापर्याप्तवनस्पतिकायिका असङ्ख्येयगुणाः, एकैकबादरनिगोदपर्याप्तनिश्रया असङ्ख्येयगुणानां बादरापर्यानिगोदानां संभवात् ७९ तेभ्यः सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८० तेभ्यः सामान्यतो बादरा विशेषाधिकाः पर्याप्तापर्याप्तानां तत्र प्रक्षेपात् ८१ तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः ८२ तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः सूक्ष्मापर्यातपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८३ तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तेभ्यः सूक्ष्मेभ्यः स्वभावतः सदैव सङ्ख्येयगुणतया प्राप्यमाणत्वात्, तथा केवलवेदसोपलब्धेः ८४ तेभ्योऽपि सामान्यतः सूक्ष्मपर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८५ तेभ्यः पर्याप्ता पर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तसूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिकायिकानामपि तत्र प्रक्षेपात् ८६ तेभ्योऽपि 'भवसि - द्धिका भवे सिद्धिर्येषां ते भवसिद्धिका - भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजी
Jain Education International
For Personal & Private Use Only
३ बहुवकव्यता
पदे महा
दण्डकः
सू. ९३
॥१६७॥
www.jainelibrary.org