SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ekeeeeeeeeeeee. इत ऊर्द्ध ये पर्यासचतुरिन्द्रिया वक्ष्यन्ते तेऽपि ज्योतिष्कदेवापेक्षया सङ्ख्येयगुणा एवोपपद्यन्ते, तथाहि-षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा ज्योतिष्काः, उक्तं च-"छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ" इति, अङ्गुलसङ्ख्येयभागमात्राणि च सूचिरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाश्चतुरिन्द्रियाः, उक्तंच-"पजत्तापज्जत्तबितिचउरअसन्निणो अवहरंति । अङ्गुलसंखासंखप्पएसभइयं पुढो पयरं ॥ १॥” अङ्गुलसङ्ख्येयभागापेक्षया च षट्पञ्चाशदधिकमगुलशतद्वयं सङ्ख्येयगुणं, ततो ज्योतिष्कदेवापेक्षया परिभाव्यमानाः पर्याप्तचतुरिन्द्रिया अपि सोयगुणा एव घटन्ते किं पुनः पर्याप्तचतुरिन्द्रियापेक्षया सङ्ख्येयभागमात्राः खचरपञ्चेन्द्रियनपुंसका इति? ४२ तेभ्योऽपि स्थलचरपञ्चन्द्रियनपुंसकाः सङ्ख्येयगुणाः ४३ तेभ्योऽपि जलचरपञ्चेन्द्रियनपुंसकाः सङ्ख्येयगुणाः ४४ तेभ्योऽपि पर्याप्तचतुरिन्द्रियाः सङ्ख्येयगुणाः ४५ तेभ्योऽपि पर्याप्ताः संश्यसंज्ञिभेदभिन्नाः पञ्चेन्द्रिया विशेषाधिकाः ४६ तेभ्योऽपि पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ४७ तेभ्योऽपि पर्याप्तास्त्रीन्द्रिया विशेषाधिकाः, यद्यपि च पर्याप्तचतुरिन्द्रियादीनां पर्याप्तत्रीन्द्रियपर्यन्तानां प्रत्येकमङ्गुलसङ्ख्येयभागमात्राणि सूचिरूपाणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वमविशेषेणान्यत्र वर्ण्यते तथाऽप्यङ्गलसङ्ख्येयभागस्य सङ्ख्येयभेदभिन्नत्वाद् इत्थं विशेषाधिकत्वमुच्यमानं न विरुद्धं, उक्तं चेत्थमल्पबहुत्वमन्यत्रापि–'तत्तो नपुंसग खहयरा संखेज्जा थलयरजलयरनपुंसगा चउरिंदिय तओ पणबितिपजत्त 99999999999999 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy