SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सहस्राणि ईशाने कल्पे, अपिच-दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वी दक्षिणस्यां च दिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्ते तत ईशानदेवीभ्यः सौधर्मदेवाः सङ्ख्येयगुणाः, नन्वियं युक्तिर्माहेन्द्रसनत्कुमारकल्पयोरप्युक्ता, परं तत्र माहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्ख्ययगुणा उक्ताः, इह तु सौधर्मे कल्पे सङ्खयेयगुणाः तदेतत् कथम् ?, उच्यते, वचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन्यत्राप्युक्तम्-"ईसाणे सवत्थवि बत्तीसगुणाओ होंति देवीओ। संखिजा सोहम्मे तओ असंखा भवणवासी॥१॥” इति २७, तेभ्योऽपि तस्मिन्नेव सौधर्मे कल्पे देव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात् , “सवत्थवि बत्तीसगुणाओ हुंति देवीओ" इति वचनात् २८ ताभ्योऽप्यसङ्ख्येयगुणा भवनवासिनः, कथम् ? इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्ग-18 मूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसङ्ख्येयगुणाः २९ तेभ्यो भवनवासिन्यो देव्यः सङ्ख्ययगुणाः द्वात्रिंशद्गुणत्वात् |३० ताभ्योऽप्यस्यां रत्नप्रभायां पृथिव्यां नैरयिका असङ्ख्येयगुणाः अङ्गलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् ३१ तेभ्योऽपि खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्ख्येयगुणाः प्रतरासङ्ख्ययभागवर्त्यसबेयश्रेणिनभःप्रदेशराशिप्र-| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy