________________
'एएसिणं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं' इत्यादि पाठसिद्धं, नवरमत्राल्पबहुत्वभावनायां सर्वत्र तथाखाभाव्यं कारणं वाच्यं । सम्प्रत्येतेषामेव क्षेत्रप्राधान्येनाल्पबहुत्वमाह-इह क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवहियन्ते, ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः-पुद्गलद्रव्याणि सर्वस्तोकानि, लोकाकाशप्रदेशप्रमाणानीत्यर्थः, न हि स कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन परिणतो न वर्तते इति, तेभ्यः सङ्ख्येयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया सद्ध्येयगुणाः, कथमिति चेत् ?, उच्यते, इहापि क्षेत्रस्य प्राधान्यात् घणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते, तानि च तथाभूतानि पुद्गलद्रव्याणि पूर्वोक्तेभ्यः सङ्ख्येयगुणानि, तथाहि-सर्वलोकप्रदेशास्तत्त्वतोऽसद्धयेया अपि असत्कल्पनया दश परिकल्प्यन्ते, ते च प्रत्येकचिन्तायां दशैवेति दश एकप्रदेशावगाढानि पुद्गलद्रव्याणि लब्धानि, तेष्वेव च दशसु प्रदेशेषु अन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते इति भवन्त्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि पुद्गलद्रव्याणि सङ्ख्येयगुणानि एवं तेभ्योऽपि त्रिप्रदेशावगाढानि एवमुत्तरोत्तरं यावदुत्कृष्टसङ्ख्येयप्रदेशावगाढानि, ततः स्थितमेतत्-एक-| प्रदेशावगाढेभ्यः सङ्ख्येयप्रदेशावगाढाः पुद्गलाः द्रव्यार्थतया सङ्ख्येयगुणा इति, एवं तेभ्योऽसङ्ख्येयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया असङ्ख्येयगुणाः, असङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वात् , द्रव्यार्थतासूत्रं प्रदेशार्थतासूत्रं द्रव्यपर्याया
GOSSORSasassa9a9SSASSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org