SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ नीयं । पञ्चेन्द्रियपर्याप्तसूत्रमिदम्-'खेत्ताणुवाएणं' इत्यादि, क्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्व-18 सस्तोका ऊर्द्धलोके, प्रायो वैमानिकानामेव तत्र भावात् , तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, विवक्षि-18 तप्रतरद्वय प्रत्यासन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधरचारणमुनितिर्यक्पञ्चेन्द्रियाणामूर्द्धलोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात, तेभ्यस्त्रैलोक्येत्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिव्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रियसमुद्घातास्तथाविधप्रयत्नविशेषादूर्द्धलोके विक्षिप्तात्मप्रदेशदण्डास्ते त्रीनपि लोकान्| स्पृशन्ति इति सङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे सङ्ख्येयगुणाः, बहवो हि व्यन्तराः खस्थानप्रत्यासन्नतया भवनपतयस्तिर्यग्लोके ऊर्द्धलोके वा व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादौ अधोलोके क्रीडादिनिमित्तं च गमनागमनकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः खस्थानप्रत्यासन्नतया अपरे तदध्यासितक्षेत्राश्रिततया यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सङ्ख्येयगुणाः, तेभ्योऽधोलोके सङ्ख्येयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात्। तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम् , इदानीमेकेन्द्रियभेदानां पृथिवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्याप्सभेदेन प्रत्येकं त्रीणि त्रीण्यल्पबहुत्वान्याह dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy