________________
प्रत्येक द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम् , इदानीमेतेषामेव प्रदेशार्थतया | तदाह-धर्मास्तिकायोऽधर्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यौ, उभयोरपि लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोको, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् , तस्मादपि पुदलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः, एकैकस्य जीवप्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् , किं पुनः सकलपुद्गलास्तिकायप्रदेशाः, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतयाऽनन्तगुणः, एकैकस्य पुद्गलास्तिकायप्रदेशस्य प्रागुक्तक्रमेण तत्तद्व्यक्षेत्रकालभावविशेषसम्बन्धभावतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात् , तस्मादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम् , इदानी प्रत्येकं द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह-सर्वस्तोको धर्मास्तिकायो द्रव्यार्थतया, एकत्वात् , प्रदेशार्थतयाऽसङ्ख्येयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् , एवमधर्मास्तिकायसूत्रमपि भावनीयम् , आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात् , प्रदेशार्थतयाऽनन्तगुणः, अपरिमि
Jain Education
Lonal
For Personal & Private Use Only
1%Dinelibrary.org