SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात् , तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रया असङ्ख्येयानां बादरनिगोदापर्याप्ता-14 नामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजःकायिकादीनामप्यपर्याप्ताना तत्र प्रक्षेपात् , तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपप्तिा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्ख्येयगुणत्वात् , ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्साः सङ्ख्येयगुणाः, सूक्ष्मेष्वोघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ग्येयगुणत्वात् ततः सूक्ष्मापर्याप्तेभ्योऽपि सहयेयगुणाः, विशेषाधिकत्वस्य सङ्ख्येयगुणत्वबाधनायोगात् , तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तापर्यासविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मवादरसमुदायगतं पञ्चममल्पबहुत्वं, तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति ॥ गतं कायद्वारम् , इदानीं योगद्वारमाहएएसि णं भन्ते ! जीवाणं सयोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अयोगीण य कयरे कयरेहिंतो अप्पा वा बहुया in Education For Personal & Private Use Only netbrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy