SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सामान्यतो बादराः पर्याप्तका विशेषाधिकाः, वादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मव-18 नस्पतिकायिकाः पर्याप्ता असङ्ग्येयगुणाः, बादरनिगोदपर्याप्तेभ्यः सूक्ष्मनिगोदपर्याप्तानामसङ्ग्येयगुणत्वात् , तेभ्यः | सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । गतं तृतीयमल्प-| बहुत्वम् , इदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथय पृथगल्पबहुत्वमाह-'एएसिणं भंते ! सुहुमाणं बायराणं पजत्तापजत्ताणं' इत्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्ताः, परिमितक्षेत्रवर्ति-18 त्वात् , तेभ्यो बादरा अपर्याप्ताः असङ्ख्येयगुणाः, एकैकवादरपर्याप्तनिश्रया असङ्ख्येयानां बादरापर्याप्तानामुत्पादात, तेभ्यः सूक्ष्मा अपर्याप्ताः असङ्ख्येयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्थासङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्ख्येयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्ख्येयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरबादरपृथिवीकायिकादीनाच प्रत्येकं पर्याप्तापर्याप्तानांच समुदायेन पञ्चममल्पबहुत्वमाह-सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमयगुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, प्रतरे यावत्यङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्ख्येयगुणाः, प्रतरे। यावत्यङ्गलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यःप्रयेकबादरवनस्पतिकायिकबादरनिगोदबा Jain .२३ For Personal & Private Use Only V inelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy