________________
प्रज्ञापनायाः मलय० वृत्तौ.
३ अल्पबहुत्वपदे सूक्ष्मबादराणामल्पसू. ६२
॥१३२॥
अपर्याप्ता यथोत्तरमसङ्खयेयगुणाः, अत्र भोवना सूक्ष्मपञ्चसूत्र्यां यद् द्वितीयं सूत्रं तद्वत्, तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ताः अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां सद्भावात् , तेभ्यः सामान्यतो बादरापर्याप्तका विशेषाधिकाः, वादरत्रसकायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदापर्याप्तेभ्यः सूक्ष्मनिगोदापर्याप्तानामसङ्ख्येयगुणत्वात् , तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजःकायिकापर्याप्तादीनामपि तत्र प्रक्षेपात् । गतं द्वितीयमल्पबहुत्वम् , अधुना एतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसि णं भंते ! सुहुमपजत्तयाणं' इत्यादि, सर्वस्तोका बादरतेजःकायिकाः पर्याप्ताः तेभ्यो बादरत्रसकायिकबादरप्रत्येकवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरपञ्चसूत्र्यां यत्तृतीयं पर्याप्तसूत्रं तद्वत् कर्त्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्ता असङ्ख्येयगुणाः, बादरवायुकायिका हि असङ्ख्येयप्रतरप्रदेशराशिप्रमाणाः सूक्ष्मतेजःकायिकास्तु पर्याप्ता असङ्ख्येयलोकाकाशप्रदेशराशिप्रमाणास्ततोऽसङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्तका असङ्ख्येयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात्, तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्तका अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां भावात्, तेभ्यः
॥१३२॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org