SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणां ज्योतिष्काणांच प्रत्येकं प्रतरासङ्ख्ययभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात् , तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात्। तदेवं नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वमुक्तम् , इदानीं नैरयिकतियग्योनिकतैर्यग्योनिकीमनुष्यमानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो -मनुष्यस्त्रियः, सङ्खयेयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असङ्खयेयगुणाः, इह मनुष्या इति संमूर्च्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् , ते च संमूर्च्छनजा वान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिका असङ्खयेयगुणाः, मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसङ्खयेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयिकास्त्वङ्गलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः ततो भवन्त्यसयगुणाः, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्ख्येयगुणाः, प्रतरासङ्खयेयभागवय॑सङ्खयेयश्रेणिनभःप्रदेशराशिप्रमाणत्वात् , ताभ्योऽपि देवा असङ्ख्यगुणाः, असङ्खयेयगुणप्रतरासङ्ख्येयभागवय॑सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात् , तेभ्योऽपि देव्यः सङ्ख्यगुणाः, द्वात्रिंशद्गुणत्वात् , ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ॥ गतं गतिद्वारम् ॥ इदानी इन्द्रियद्वारमधिकृत्याह यगुणाः, तेभ्यस्तिर्यग्योनिगमूलगुणितप्रथमवर्गमूलप्रमाणतप्रदेशराशिप्रमाणा लभ्यन्त त dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy