SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नन्तरं जीवद्वार, २३, ततः क्षेत्रद्वारं २४, ततो बन्धद्वारं २५, ततः पुद्गलद्वारं २६, ततो महादण्डकः २७, इति । सर्वसङ्ख्यया सप्तविंशतिः द्वाराणि । तत्र प्रथमं द्वारमभिधित्सुराहदिसाणुवाएणं सवत्थोवा जीवा पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। (मू०५५) इह दिशः प्रथमे आचाराख्ये अङ्गे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात्, इतरासां च प्रायोऽनवस्थितत्वात् अनुपयोगित्वाच, क्षेत्रदिशां च प्रभवस्तिर्यग्लोकमध्यगतादष्टप्रदेशकाद्रुचकात्, यत उक्तम्-"अट्टपएसो रुयगो तिरियलोयस्स मज्झयारम्मि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥" इति, दिशामनुपातो दिगनुपातो-दिगनुसरणं तेन दिशोऽधिकृत्येति तात्पर्यार्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, कथमिति चेत् ?, उच्यते, इदं ह्यल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, न सूक्ष्मान् , सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् , बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याकतया तेषां प्राप्यमाणत्वात् , ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वं, वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जत्थ जलं तत्थ वणं' इति वचनात् तत्रावश्यं पनकसेवालादीनां भावात् , ते च पनक-18 सेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वात् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवेद्विदिशाम् ॥ १॥ JainEducationailsonal For Personal & Private Use Only Klinelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy