________________
प्रज्ञापनाया: मलयवृत्ती.
२ स्थानपदे वैमानिकस्थानं सू.५१
॥१०॥
दिवाए अच्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा ते ण तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिवाई भोगभोगाई भुंजमाणा विहरंति । (सू०५१)
वैमानिकसूत्रे चतुरशीतिर्विमानलक्षाणि सप्तनवतिर्विमानसहस्राणि त्रयोविंशतिर्विमानानीति, 'बत्तीसट्ठावीसा बारसट्ठचउरो सयसहस्सा' इत्यादिसंख्यामीलनेन परिभावनीयानि, 'ते णं मिगमहिस' इत्यादि, सौधर्मदेवा मृगरूपप्रकटितचिह्नमुकुटाः ईशानदेवा महिषरूपप्रकटितचिह्नमुकुटाः सनत्कुमारदेवा वराहरूपप्रकटितचिह्नमुकुटाः माहेन्द्रदेवा सिंहरूपप्रकटितमुकुटचिह्नाः ब्रह्मलोकदेवाः छगलरूपप्रकटितमुकुटचिह्नाः लान्तकदेवा दर्दुररूपप्रकटितमुकुटचिह्नाः शुक्रकल्पदेवा हयमुकुटचिह्नाः सहस्रारकल्पदेवा गजपतिमुकुटचिह्नाः आनतकल्पदेवा भुजगमुकुटचिह्नाः प्राणतकल्पदेवाः खगमुकुटचिह्नाः खड्गः-चतुष्पदविशेष आटव्यः आरणकल्पदेवा वृषभमुकुटचिह्नाः अच्युतकल्पदेवा विडिममुकुटचिहाः, 'वरकुंडलुजोइआणणा' इति वराभ्यां कुण्डलाभ्यामुद्दयोतितं-भाखरीकृतमाननं येषां ते तथा, शेषं सुगमं ॥
॥१०॥
dain Education
national
For Personal & Private Use Only
www.jainelibrary.org