SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्तौ. २ स्थानपदे असुरादिस्थानं सू. ४६ ॥९१॥ 20269999999999 यति-'महानीलसरिसा' महानीलं यत् किमपि वस्तुजातं लोके प्रसिद्धं तेन सदृशाः, एतदेव न्याचष्टे-नीलगुटिका-नील्या गुटिका गवलं-माहिषं शृङ्गं अतसीकुसुमं प्रतीतं तेषामिव प्रकाशः-प्रभा येषां ते नीलगुटिकागवलातसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईपद्-देशविभागेन मनाक् सिते रक्ते ताने च नयने येषां ते विकसितशतपत्रनिर्मलेषसितरक्तताम्रनयनाः, गरुडस्येवायता-दीर्घा ऋज्वी-अकुटिला तुङ्गा-उन्नता नासा-नासिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा उवचियं-तेजितं यत् शिलाप्रवालं-विद्रुमरत्नं यच्च बिम्बफलं-बिम्ब्याः सत्कं फलं तत्सन्निभोऽधरोष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभाव्यारक्तं शशिशकलं-चन्द्रखण्ड तदपि च कथंभूतमित्याह-विमलं-रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्खो गोक्षीरं यानि कुन्दानि-कुन्दकुसुमानि दकरजः-पानीयकणाः मृणालिका च तद्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात् , तथा हुतवहेन-वैश्वानरेण निर्मातं सद् यजायते धोतं-निर्मलं तप्तम्-उत्तप्तं तपनीयमारक्तं सुवर्ण तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिर्मातधौततप्ततपनीयरक्ततलतालुजिह्वाः, तथा अञ्जनं-सौवीराजनं घनः-प्रावृट्कालभावी मेघस्तद्वत्कृष्णा रुचकरत्नवद् रमणीया स्निग्धाश्च केशा येषां ते अञ्जनघनकृष्णरुचकरमणीयस्निग्धकेशाः॥ ___ कहिं णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पञ्जत्तापञ्जत्ताणं ठाणा प० ?, कहि णं भंते ! दाहिणिल्ला असुरकु ॥९१॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy