SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ये गृहाकाराः कल्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते, न च तत्र क्षेत्रे दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि च जायन्ते भुजगव्याघसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौद्रानुभावरहितत्वात् , मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तच्च युगलमेकोनाशीतिदिनानि पालयन्ति, तेषां शरीरोच्छ्योऽष्टौ धनुःशतानि, पल्योपमासंख्येयभागप्रमाणमायुः, उक्तं च-“अन्तरदीवेसु नरा धणुसयमट्ठसिया सया मुइया । पालंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ ॥१॥चउसहि पिटकरंडयाणि मणुयाण तेसिमाहारो। भत्तस्स चउत्थस्स य गुणसीइदिणाणि पालणया ॥२॥" स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति, मरणं च तेषां जम्भिकाकासक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । तदेवमुक्ता अन्तरद्वीपगाः॥ साम्प्रतमकर्मभूमकप्रतिपादनार्थमाहअथ के तेऽकर्मभूमकाः १, सूरिराह-अकर्मभूमकास्त्रिंशद्विधाः प्रज्ञप्ताः, तच त्रिंशद्विधत्वं क्षेत्रभेदात्, तथा चाह'तंजहा-पंचहिं हेमवएहिं' इत्यादि, पञ्चभिहेमवतैः पञ्चभिहरण्यवतैः पञ्चभिर्हरिवः पञ्चभी रम्यकवः पञ्चभिदेवकुरुभिः पञ्चभिरुत्तरकुरुभिर्भिद्यमाना त्रिंशद्विधा भवन्ति, षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात् । तत्र पञ्चसु हैमवतेषु पंचसु हैरण्यवतेषु मनुष्या गव्यूतप्रमाणशरीरोच्छ्रयाः पल्योपमायुषो वर्षभनाराचसंहननाः समचतुरस्रसंस्थानाः चतुःषष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभोजिन एकोनाशीतिदिनान्यपत्यपालकाः, उक्तं च-“गाउअमुच्चा पलि Loccesekeeeeeeeeeeee dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy