________________
भारहे वासे चंपा नामं नयरी होत्या, रिद, पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवीअत्तए कृणिए नाम राया होत्या, महता, तस्स णं कूणियस्स रनो पउमावई नाम देवी होत्या, सोमाल जाव विहरइ । भावः । भारते वर्षे-क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धत्यनेन रिथिमियसमिद्धे 'त्यादि दृश्य, व्याख्या तु शग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्यन्तरायतनम् । 'कुणिए नाम राय'त्ति कणिकनामा श्रेणिकराजपुत्रो राजा होत्थ' त्ति अभवत् । तद्वर्णको “महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादि पसंतडिंबडमरं रज पसाहेमाणे विहरइ" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्रः-शक्रादिदेवराजः, तद्वत्सार:-प्रधानो यः स तथा। तथा प्रशान्तानि डिम्बानि-विना डमराणि च-राजकुमारादिकृता विड्वरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन-पालयन् विहरति-आस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सोमाल जाव विहरइ' यावत्करणादेवं दृश्यम् “सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पश्चापीन्द्रियाणि यस्मिस्तत् तथाविधं शरीरं यस्याः सा तथा । “लक्खणवंजणगुणोववेया" लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि-मधीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । “माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी" तत्र मान-जलद्रोणप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरम् अङ्ग-शरीरं यस्याः सा तथा । “ससिसोमाकारकंतपियदसणा" शशिवत्सौम्याकारं कान्तं च-कमनीयम् अत एव प्रियं द्रष्ट्रणां दर्शन-रूपं यस्याः सा तथा। अत एव सुरूपा स्वरूपतः सा पद्मावती देवी 'कुणिएण सद्धिं उरालाई
Jain Educat
ional
For Personal & Private Use Only
I
n elibrary.org