SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ निरया॥४॥ वलिका. तत्य णं चंपाए नयरीए सेणियस्स रनो भज्जा कूणियस्स रनो चुल्लमाउया काली नामं देवी होत्या, सोमाल जाव सुरूवा। तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमाल जाव सुरुवे । भोगभोगाई भुंजमाणी विहरइ' भोगभोगान्-अतिशयवद्धोमान् । 'तत्थ णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम्। अन्यच्च "कोमुइरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यंच वदनं यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । 'सिंगारागारचारवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिव अगारं तथा चारुः वेषो-नेपथ्यं यस्याः सा तथा ततः कर्मधारयः। 'काली नामं देवी' श्रेणिकस्य भार्या कूणिकस्य राज्ञश्चल्लजननी-लघुमाताऽभवत् । सा च काली “सेणियस्स रन्नो इट्ठा" वल्लभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात् , 'मणुन्ना' सुन्दरत्वात् 'नामधिज्जा' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् , ' सम्मया' तत्कृतकार्यस्य संमतत्वात् ‘बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता। भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाञ्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयात् लोचनभयाच्च सुष्टु सङ्गोप्यते, एवं साऽपि तथोच्यते । 'चेलापेडा इव सुसंपरिग्गहिया वस्त्रमञ्जषेवेत्यर्थः। 'सा काली देवी सेणिपण रन्ना सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरह। कालनामा च तत्पुत्रः 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् 'पासाइए दरिणिज्जे अभिरूवे पडिरूवे' इति पर्यन्तः। सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो १ सेयणगे हत्थीए २। तत्थ किर सेणियस्स रन्नोजावइयं रजस्स मुलं तावइयं देवदिन्नहारस्स सेयणगस्स य गंधहत्थिस्स । तत्थ हारस्स उप्पत्ती पत्थावे कहिजिस्सइ। कूणियस्स य पत्थेव उप्पत्ती वित्थरेण भणिस्सह, तत्कार्येण कालादीनां मरणसंभवात् आरम्भसङग्रामतो नरकयोग्यकर्मोपचयविधानात् । For Personal & Private Use Only MI॥४॥ Jain Educa t ional nelibrary.org
SR No.600238
Book TitleNiryavalikasutram
Original Sutra AuthorChandrasuri
Author
PublisherAgamoday Samiti
Publication Year1922
Total Pages86
LanguageSanskrit
ClassificationManuscript & agam_nirayavalika
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy