SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीराजमनी मलयगिरीया वृत्तिः ।। २९ ।। Jain Education ‘तेसिं तोरणाणं उप्पिमि’त्यादि सुगमं, नवरं ' जाव पडिरूवा' इति यावच्छन्दकरणात् 'घट्टा मट्टा नीरया निम्मला निष्पंका निक्कंकडच्छाया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरुवा ' इति द्रष्टव्यं । 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽपीत्यत आह- अच्छा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णाः श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुप्पपट्टा' इति रूप्यो- रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टा: ' वइरदंडा' इति वज्रो - वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः, तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्या: 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । ' तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि - छत्रात्- लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विस|ङ्ख्याकानि त्रिसङ्ख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः | पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः - उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः | पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि रत्नमया अच्छा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् ' सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निष्यंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा ' इति परिग्रहः । ' तस्स णमित्यादि, तरस णमिति पूर्ववत् दिव्यस्य यानविमानस्य अन्तः मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट ? इत्याह For Personal & Private Use Only 30703873805006 दिव्ययान कारणं मू० १४ ॥ २९ ॥ Gainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy