SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्री मलयगिरीया वृत्तिः ॥ १ ॥ 30000 स्वसमयः स्थाप्यते, उक्तं च नन्वध्ययने- “ सुयंगडे णं असीयसयं किरिआवाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिन्हं तेवद्वाणं पासंडियसयाणं जियूहं किया ससमए ठाविज्जई"त्ति, प्रदेशी च राजा पूर्वमक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलन्न्य जीवविषयान् प्रश्नानकरोत् केशिकुमारश्रमणश्च गणधारी सूत्रकृताङ्ग-सूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षित्, ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्ग सूत्रकृताङ्गस्येति । एतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिवित्सुरिदमाह - णं काले णं णं समए णं आमलकप्पा नामं नयरी होत्था, रिद्धत्थिमियसमिद्धा जाव पासा दीया दरिसणिज्जा अभिरुवा पडिरुवा ( सू० १ ) ॥ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूवे ( सू० २ ) ‘ते णं काले णं ते णमित्यादि ' ' ते ' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं अस्यायमर्थो - यस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण' मिति वाक्यालङ्कारे, दृष्टवान्यत्रापि णंशब्दो वाक्यालङ्कारार्थो यथा - 'इमा णं पुडवी' इत्यादाविति, 'काले ' अधिकृतावसर्पिणीचतुर्थविभागरूपे, अत्रापि शब्दो वाक्यालङ्कृतौ, ' ते णं समए णं' समयोऽवसर' १ सूत्रकते अशीतं शतं क्रियावादिनां चतुरशीतिमक्रियावादिनां सप्तषष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिक| शतानां निर्यूहं कृत्वा स्वसमयः स्थाप्यते । Jain Educational For Personal & Private Use Only 3038705 103003001 आमलक ल्पावर्णनं सू० १ आम्राशालवर्णनं मृ० २ ॥ १ ॥ ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy