________________
॥ अहम् ॥ श्रीमन्मलयगिर्याचार्यविहितविवृत्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥
॥ॐ नमः॥ प्रणमत वीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥१॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ?॥२॥
अथ कस्मादिदमुपाङ्ग राजप्रश्नीयाभिधानमिति ?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान् , यच्च व्याकरणसम्यक्परिणतिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाधितिष्ठत् , यथा च विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाट्यमनरीनृत्यत्, नर्तित्वा च यथाऽऽयुष्कं दिवि सुखमनुभूय ततश्चयुत्वा यत्र समागत्य मुक्तिपदमवाप्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इति-राजप्रश्नेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदमुपाङ्ग १, उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, मूत्रकृते ह्यङ्गे अशीत्यधिकं शतं क्रियावादिना, चतुरशीतिरक्रियावादिना, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशदैनयिकानां, सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि पाखण्डिकशतानि प्रतिक्षिप्य
Jain Education
For Personal & Private Use Only
Sinelibrary.org