________________
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः
आभियोगिकस्य वीरान्तिके गमनम्
१८॥
गन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्राद्दवीयसि देशे 'एडयत' अपनयत एडयित्वा च नात्युदकं नाप्यतिमृत्तिकं यथा भवति एवं सुरभिगन्धोदकवर्ष वर्षत, कथम्भूतमित्याह-दिव्यं प्रधानं सुरभिगन्धोपेतत्वात् , पुनः कथ- म्भूतमित्याह-'पविरलपप्फुसियामिति प्रकर्षेण यावद्रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, स्पर्शनानि प्रस्पृष्टानि प्रविरलानि धनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन्वये तत्पविरलप्रस्पृष्टं, अत एव 'रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजः त एव स्थला रेणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं, एवम्भूतं च सुरभिगन्धोदकं वर्षे वर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र तनिहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथाऽदृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टं-बातोद्भूततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजो यस्मात्तद् भ्रष्टरजः, एतदेव एकार्थिकद्वयेन प्रकटयति–उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य जातावेकवचनं कुसुमजातस्य जानूत्सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्र वर्ष वपत, किंविशिष्टस्य कुसुमस्येत्याह-'जलथलयभासुरप्पभूयस्स' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं-दीप्यमानं प्रभूतं-अतिप्रचुरं, ततः कर्मधारयः, भास्वरं च तत्पभूतं च भास्वरप्रभूतं जलजस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह-'विट्ठाइस्स' वृन्तेन–अधोवर्त्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः, 'दसद्धवन्नस्स' दशानाम? | पञ्च दशार्दू वर्णा यस्य तद् दशार्द्धवर्णं तस्य पञ्चवर्णस्येति भावः, इत्यम्भूतस्य च कुसुमजातस्य वर्ष वर्णित्वा ततः योजनपरि
|॥१८॥
Jain Education in
EN
For Personal & Private Use Only
nelibrary.org