________________
द्रव्यानां पुष्पताम्बूलादीनां 'विउसरणयाए' इति व्यवसरणेन--व्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्गेण, कचित् "विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां--छत्रादीनां व्युत्सर्जनेन
परिहारेण, उक्तं च- अयणेइ पंच कहाणि रायवरचिंधभूयागि । छत्तं खगो वाणह मउडं तह चामराओ य ॥२॥' इति, * एका शाटिका यस्मिन् तत्तथा तच्च तद उत्तरासंगकरणं च-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुस्स्पर्श--दर्शने 'अंजलिपग्ग
हेण ' हस्तजोटनेन, मनस एकत्रीकरणेन-एकत्वविधानेन, 'पाडिहारिएण पीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण--पुनः समर्पणीयेन । 'अवियाई चित्ता! जागिस्सामो' इति 'अवियाई इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कचित्पाठः आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस रिष्यामो वर्तमानयोगेन, 'फुट्टमाणेहिं मुइंगमस्थएहि'ति स्फुटद्भिरतिरभसास्फालनात् मर्दलमुखपुटैः द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तद्गुणानां गानात्। 'दसणं कंखेइ ' इत्यादि, काऋति प्रार्थयते स्पृटते अभिलपति चत्वारोऽप्येकार्थाः । 'चउहिं ठागेहि' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथम कारणं, उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीयं, मातिहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादि चतुर्थ, एतैरेव चतुर्भिः स्थानैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया-श्रवणेनेति भावः, 'जत्यवियण 'मित्यादि, यत्रापि श्रमणः-साधुः माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राश्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुझं च णं चित्ता !
Jain Education Int
l
For Personal & Private Use Only
M
ainelibrary.org