________________
चाउग्घटं आसरहं दुरुहइ २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ॥ (सू०५४)॥
'महया जणसद्देइ वा' इति महान् जनशब्दः परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्द: पदान्तरापेक्षया समुच्चयार्थः,जनव्यूहो-जनसमुदाया, जनबोलेइ वा' इति बोला-अव्यक्तवर्णो ध्वनिः,'जनकलकलेइ वा' कलकल: स एवोपलभ्यमानवचनविभागः 'जणउम्मीइ वा उम्मि:-संबाध: जणउक्कलियाइ वा' लघुतरसमुदाय: 'जणसन्निवाए इवा' सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं, 'जाव परिसा पज्जुवासइ' इति, यावत्करणात् 'बहुजणो अन्नमन्नस्स एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं खलु देवाणुप्पिया ! पासावचिजे केसीनामं कुमारसमणे जाइसंपण्णे जाव गामाणुगाम दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सावत्थीए नयरीए कोहए चेइए अहापडिरूवं उग्गई उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु देवा०तहारूवाणं समणाणं नामगोयस्सवि सवणयाए' इत्यादि प्रागुक्तसमस्तपरिग्रहः, 'इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्रः स्कन्दः कार्तिकेयः रुद्रः प्रतीतः मकुन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो-यक्षराट् नागो-भवनपति विशेषः यक्षो भूतश्च व्यन्तरविशेषौ स्तूपः-चैत्यस्तूपश्चैत्य-प्रतिमा वृक्षदरिगिरीअवटनदीसर सागरा: प्रतीताः, बहवे उग्गा उग्गपुत्ता भोगा जावलेच्छइपुत्ता' इति,उग्राः आदिदेवावस्थापिता इक्षुवंशजाता: उग्रपुत्राः त एव कुमाराद्यवस्था, एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्या:-भगवदयस्यवंशजाः यावत्करणात् 'खत्तिया माहणा भडा जोहा मल्लई मल्लइपुत्ता लेच्छई २ पुत्ता' इति परिग्रहः,तत्र क्षत्रिया:-सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org