________________
इति यावत् 'चरित्तप्पहाणे' इति,करणं-पिण्डविशुद्धयादि,उक्तश्च-"पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥" चरण-महाव्रतादि,उक्तञ्च-'वय समणधम्म संजम वेयावच्चं च बंभगुतीओ। णाणाइतियं तव कोहनिगहाई चरणमेयं ॥१॥ निग्रहः-अनाचारप्रवृत्तेनिषेधनं । निश्चयः-तत्त्वानां निर्णयः विहितानुष्ठाने
ववश्यमभ्युपगमो वा आर्जवं-मायानिग्रहो लाघव-क्रियासु दक्षत्वं क्षान्तिः-क्रोधनिग्रहः गुप्ति:-मनोगुप्त्यादिका मुक्तिःनिर्लोभता विद्या-प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा-हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्य-बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोतरिककुमावनिकभेदभिन्न: नया-नैगमादयः सप्त प्रत्येकं शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-भूतहितं वचः शौच-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञान-मत्यादि दर्शन-सम्यत्वं चारित्रं-बाह्यं सदनुष्ठान, यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधवादीनामाजवादीनां च का प्रतिविशेषः ?, उच्यते; जितक्रोधादिविशेषणेषु तदुदयविफलीकरणं मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादिः अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीय, तथा 'ओराले' इति उदारः-स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे संखितविउलतेउलेसे चउद्दसपुची चउनाणोवगए' इति पूर्ववत्, 'पंचहि अणगारसरहिं' इत्यादिक वाच्यं ।। (मू०५३)॥
M
Jain Educational
For Personal & Private Use Only
a inelibrary.org