________________
ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणपूर्वत्रदर्च निकांकरोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करिणीपर्यवसानाऽनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरचयित्वा पुष्पाधारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदनिकां करोति, तदनन्तरमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादी-'खिप्पामेवे' त्यादि सुगम यावत्'तमाणत्तियं पच्चप्पिणंति'नवरं शङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति,चतुष्क-चतुष्पथयुक्तं,चत्वरं-बहुरथ्यापातस्थानं,चतुर्मुखं यस्माच्चतमुष्वपि दिक्षुपन्थानो निस्सरन्ति,महापथो:-राजपथःशेषः सामान्य पन्थाः पंथामाकार प्रतीतः,अट्टालका-पाकारस्योपरि भृत्याश्रयविशेपाः,चरिका-अष्टहस्तप्रमाणो नगरमाकारान्तरालमार्गःद्वाराणि-प्रासादादीनां गोपुराणि-पाकारद्वाराणि तोरणानि-द्वारादिसम्ब. न्धानि आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्या वित्यसावारामः,पुष्पादिमयवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुयानं, सामान्यवृक्षवृन्दनगरासन्न काननं, नगरविप्रकृष्टं वनम्, एकाऽनेकजातीयोत्तमवृक्षसमूहों वनखण्डः, एकजातीयोत्तमक्षसमूहो वनराजी,'तए ण मित्यादि,ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुपदक्षिणीकुर्वन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org