SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मलयगिरीया वृत्तिः * मूर्याभस्या भिषेक मू०४२ ॥१०२॥ देवशयनीये देवष्यान्तरे प्रथमतोऽगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्न: 'तए ण' मित्यादि सुगम, नवरं इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य मायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जतीए पज्जत्तीभावं गच्छइ' इत्युक्तं 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत-'अभत्थिए ' इत्यादि पदव्याख्यान पूर्ववत्, कि 'मे' मम पूर्व करणीयं कि मे पश्चात्करणीय? किं मे पूर्व क श्रेयः ? किं मे पश्चात् कत्तुं श्रेयः ?,तथा कि मे पूर्वपपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देश: संगतत्वाय निश्रेियसायनिश्चितकल्याणाय अनुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रममदर्शनार्थं लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनाभेदोऽप्यतिवादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो-गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदाभिलेय' मिति, महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं, तथा महान् अर्घ:-पूजा यत्र स महार्यः तं, महम्-उत्सवमहतीति महार्हस्तं, विपुलं-विस्तीर्ण शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'असहस्सं सावणियाण कलसाणं विउवंती' त्यादि, अत्र भूयान् वाचना ॥ १०२॥ Jain Education Intel For Personal & Private Use Only Allainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy