________________
वणोयतूल फासे मउते॥ (सू० ३७)॥ . 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा च अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'सहमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञतं, तस्य च देवशयनीयस्य अयमेतद्रुपो वर्णावासो-वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-नानामणिमया:प्रतिपादा-मूलपादानां प्रति विशिष्टोपष्टम्भकरणाय पादाःप्रतिपादाः,सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-बज्ररत्नापूरिताः सन्धयः 'नानामणिमये विच्चे' इति नानामणिमयं व्यूत-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिगममूलटीकाकार:-'बिब्बोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से णं देवसयणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनवतिक-सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्बोयणे' इति उभयत:उभौ-शिरोऽन्नपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नतं 'मज्झेणयगंभीरे' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च-महत्वान्नतगम्भीरं गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासे अधोगमन मिति भावः तेन 'सालिसए' इति सदृशकं गङ्गापुलिनवालुकावदातसदृशकं, दृश्यते चाय प्रकारो हंसतूल्यादिष्विति, तथा 'उयविय' इति विशिष्ट परिकर्मितं क्षोम-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उयवियक्षौमद्कूलपट्टः स प्रतिच्छदन-आच्छादनं यस्य तत्तथा ' आईणगरूयबूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुके
Jain Education.inde
For Personal & Private Use Only
lanelbrary.org