________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
मण्डपस्तूप पतिमाचैत्य
क्षेन्द्रध्वज |जिनसकथी
॥८९॥
सू०३६
दूता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखं उत्-पावल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेतिभावः, अभ्युद्गता चासौ सुकृताच अभ्युद्गतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा तथा, वराभिः- प्रधानाभिः रचिताभिःरतिदाभिर्वा शालिभनिकाभिः सुश्लिष्टा:-संबद्धा विशिष्ट-प्रधानं लष्ट-मनोज्ञ संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभृता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्भा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपात: सुखादिदर्शनात, नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्ज्वलबहुसमसुविभक्त (निचित) भूमिभागा, 'इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव अच्चीसहस्समालिणीया रूबगसहस्सकलिया भिसिमीणा भिभिसमीणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा धवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणददरदिन्नपंचंगुलितला उपचियचंदणकलसवंदणघडमुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलववग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंनोवयारकलिया कालागुरुपवरकुंदुरुकतुरुक्कधुवडझंतमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधव भिया अच्छरगणसंघसंविकिण्णा दिवतुडियसहसंपणादिया सत्वरयणामया अच्छा जाव पडिरूवा 'इति प्राग्वत । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायास्त्रिदिशि
Jain Education Intel
For Personal & Private Use Only
Lainelibrary.org