SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सीहासणं सपरिवार पासायउवरि अट्टमंगलगा झया छत्तातिछत्ता ॥ (मू०३५)॥ तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलपासादावतंसकः प्रज्ञप्तः, स च पञ्च योजनशतान्य_मुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अन्भुग्गयमूसियपहसियाविवेत्यादि तस्य वर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिःस्थितप्रासादवद्भावनीयं, तस्य च मूलपासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चखारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेके सिंहासनं प्रज्ञप्त, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, “से ण' मित्यादि, स मूलप्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चलप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-अतृतीयानि योजनशतान्यूर्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णन मुल्लोकवर्णनं च माग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक २ सिंहासन प्रज्ञप्त, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि, 'ते णं पासायवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः ‘तयच्चत्तपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यददै तदुच्चखप्रमाणमात्रैः-मूलपासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्बोच्चत्वपमाणमेव दर्शयति-ते ण' मित्यादि, ते प्रासादावतंसका: पंचविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन द्वापष्टियो Jain Education.in For Personal & Private Use Only x jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy