________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
पासादावतं सकवउपरि कालयनव मु०३३
खरक इवावतंसकः प्रासादानामवतंसक इव प्रासादावतंसका प्रासादविशेष इति भावः, ते च प्रासादावतंसकाः पञ्च योजनशतान्यर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव ' इत्यादिविशेषणजातं माग्वत् , भूमिवर्णनं उल्लोकवर्णनं सपरिवारं च प्राग्वत् , 'तत्थ ण' मित्यादि, तत्र-तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् ' महज्जुइया महावला महासुक्खा महाणुभावा' इति परिग्रहः, पल्यो- पमस्थितिकाः परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चंपकवने चंपकचतवने चूतः' 'ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वास परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेपामात्मरक्षाणां आहेवच्चं पोरेवच्चं' इत्यादि प्राग्वत् , 'सूरियाभस्स ण' मित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादि यानविमान इव वर्णनं तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र सुमहत् एकं उपकारिकालयनं प्रज्ञप्त, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युपकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र खियापकाोपकारिकेति प्रसिद्धा, उक्तं च-" गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एक योजनशतसहस्रमायामविष्कम्भाभ्यां त्रोणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टा
८१॥
Jain Education inted
For Personal & Private Use Only
anbrary.org