________________
देवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता बनरूण्डा अवभार.न्ते इति, तथा एते कृष्णनोलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भप्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः तीव्राश्च इत्युक्ताः, न चैतदुपचारमानं किन्तु तथावभासोऽप्यस्ति तत उक्तं-स्निग्धावभासास्तीवावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुररसरं विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि, कृष्णा वनखण्डाः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतृषु सर्वासां विभक्तीनां पायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थ:यस्मात् कृण्णा छाया-आकारः सविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीय, नवरं शीता: शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'धनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितट पना-अन्योऽन्यशाखापशाखानुप्रदेशतो निविडा कडितटे-मध्यभागे छाया येषां ते तथा, मध्यभागे निविडतररछाया इत्यर्थः, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतम दृट्कालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुस्वभृताः, महामेघवृन्दोपमा इत्यर्थः। ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभृतप्रागुक्ततिलकादिवृक्षवर्णनवत परिभावनीय, नवरं 'सुयचरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमया भावनीयं, 'अणेगसगडरहजाणे
Jain Education
For Personal & Private Use Only
4
w.jainelibrary.org