SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सूर्याभकृतं द्वात्रिंशद्विषं नृत्यं श्रीराजमश्नी विभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारपविभक्तिनाम चतुर्दशं नाट्यविधि १४ तदनन्तरं क्रमेण क इति ककाराविभक्तिः, ख मलयगिरी- इति खकारप्रवि० ग इति गकारप्र० घ इति घकारप्र० ङ इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिपविभक्तिअभिनयात्मक या वृत्तिःककारखकारगकारघकारङकारप्रविभक्तिनामकं पञ्चदशं दिव्यं नाट्यविधि १५ एवं चकारछकारजकारझकारअकारप्रविभक्तिनामकं षोडशं दिव्यं नाट्यविधि १६ टकारठकारडकारढकारणकारपविभक्तिनामकं सप्तदशं दिव्यं नाट्यावधि १७ तकारथकारदकारधकारनकारप्रविभक्तिनामकं अष्टादशं नाट्यविधि १८ पकारफकारबकारभकारमकारप्रविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि |१९ ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवपविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मकं पल्लवप्रविभक्तिनामकं विंशतितमं | दिव्यं नाट्यविधि २० तदनन्तरं पद्मलतापविभक्तिनागलतापविभक्तिअशोकलतापविभक्तिचम्पकलतापविभक्तिचूतलतापविभक्ति| वनलतापविभक्तिवासन्तीलतापविभक्तिकुन्दलतापविभक्तिअतिमुक्तकलतापविभक्तिश्यामलतापविभक्तिअभिनयात्मकं लतापविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि २१ तदनन्तरं द्रुतं नाम द्वाविंशतितमं नाट्यविधि २२ ततो विलम्बितं नाम त्रयोविंशतितम २३ द्रुतविलम्बितं नाम चतुर्विंशतितमं २४ अश्चितं नाम पञ्चविंशतितम २५ रिभितं नाम षड्रिंशतितमं २६ अश्चितरिभितनाम सप्तविंशतितमं २७ आरभटं नाम अष्टाविंशतितमं २८ भसोलं नाम एकोनत्रिंशति(त्त)मं २९ आरभटभसोलं नाम त्रिंशत्तमं ३० तदनन्तरमुत्पातनिपातप्रसक्तं सङ्कचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१॥ तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेक-| चरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणनिबद्धं चरमनिबद्धं Jain Education For Personal & Private Use Only Tinyanelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy