SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ नाव्यविधिः मू०२३ श्रीराजप्रश्नी द्रष्टणां श्रोतणां च मनोनितिकरमिति भावः, तच्च मनोनितिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाहमलयगिरी- मणहर ' इति, 'मणहरे गीए मणहरे वाइए मणहरे नट्टे' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम् , या वृत्तिः एतदेवाह -'उप्पिञ्जलभूते' उप्पिजलम्-आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ?-महर्द्धिकदेवानामप्यतिशायितया ॥५२॥॥ परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचित्ताक्षेपकारीति, 'कहकहभूते' इति कहकहेत्यनुकरणं, कहकहति भूतं प्राप्तं कहकहभूतं, किमुक्तं भवति ?-निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतमिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभूत् । 'तए णं ते बहवे देवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मलकानां भक्त्या-विच्छित्त्या चित्रम्-आलेखनमाकाराभिधानं वा यस्मिन् स स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः, एवं सर्वत्रापि व्युत्पत्तिमानं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्राभूते, तच्चेदानी व्यवच्छिन्नमिति प्रथम दिव्यं नाट्यविधिमुपदर्शयति, तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता तं चैव भाणियवं जाव दिवे देवरमणे पवत्तेयावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य Jain Education For Personal & Private Use Only Mainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy