________________
उत्तराध्य.
बृहद्वृत्तिः
॥५४२॥
शेषः, अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिता भवन्ति, स्थापना चेयम्-us॥ एतेषु च कः शुद्धः को वाऽ-1|| सामाचाशुद्धः इत्याह-'प्रथमपदम्' इहैवोपदर्शिताद्यभङ्गरूपं 'प्रशस्तं' निर्दोषतया श्लाघ्य " शुद्धमितियावत् , शेषाणि तु है यध्ययनं. प्रक्रमात्पदानि द्वितीयादिभङ्गात्मकान्यप्रशस्तानि, तेषु न्यूनताद्यन्यतमदो।sssssषसम्भवात् , ततः प्रथमभङ्गानुपातिन्येव प्रतिलेखना विधेयेत्युक्तं भवति । एवंविधामप्येनां कुर्वता यत्परिहर्त्तव्यं तत् काकोपदेष्टुमाह-प्रति-2 लेखनां कुर्वन् 'मिथःकथां' परस्परसंभाषणात्मिकां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत्, ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति-अपरं पाठयति, खयं प्रतीच्छति वा आलापादिकं गृह्णाति, य इति गम्यते, स किमित्याह, 'पुढवीति स्पष्टं, नवरं 'पुढवीआउक्काय'त्ति पृथिव्यप्काययोः 'प्रतिलेखनाप्रमत्तो' मिथः कथादिना तत्रानवहितः सन् षण्णामपि, आस्तामेवैकादीनामित्यपिशब्दार्थः, विराधकश्चैवं-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, प्लावनातश्च विराध्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि द्रव्यतो विराधकत्वं, भावतस्तु प्रमत्ततयाऽन्यथाऽपि विराधकत्वमेव, उक्त हि- ॥५४२॥ "इय दवओ उ छण्हं विराहतो भावतो इहरहावि । उवउत्तो पुण साहू संपत्तीए वऽवहओ उ ॥१॥" तदनेन १ एवं द्रव्यतः षण्णां विराधको भावत इतरथाऽपि । उपयुक्तः पुनः साधुः संपत्तावप्यवधक एव ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org