________________
उत्तराध्य.
वृहद्वृत्तिः
॥५३७॥
| उत्तरदाहिणमाई उत्तरपयसोज्झपक्खेषो ॥ १ ॥" अत्र चायनम् - उत्तरायणं दक्षिणायनं च तस्यातीतदिनानि - अति| क्रान्तदिवसास्तेषां गणः- समूहोऽयनातीतदिनगणः, स चोत्कृष्टतख्यशीतं शतं तच्चाष्टगुणं जातानि चतुर्दश शतानि चतुःषष्ट्यधिकानि, तत्र चैकषष्ट्या भागे हृते लब्धानि चतुर्विंशतिरङ्गुलानि, तत्रापि द्वादशभिरङ्गुलैः पदमिति जाते द्वे पदे, एतयोश्च 'उत्तरदाहिणमाई 'त्ति उत्तरायणादौ दक्षिणायनादौ च 'उत्तरपद' त्तिउत्तरपदयोः 'सोज्झ' त्ति शुद्धिः प्रक्षेपश्च, तत्र हि उत्तरायणप्रथमदिने चत्वारि पदान्यासन् ततस्तन्मध्यात्पदद्वयोत्सारणे जाते कर्कट संक्रान्त्यदिने द्वे पदे, दक्षि |णायनाद्यदिने तु द्वे पदे अभूतां, तन्मध्ये च द्वयोः क्षिप्तयोर्जातानि मकरसङ्क्रान्तौ चत्वारि पदानि, इदं चोत्कृष्टजघन्यदिनयोः पौरुषीमानं, मध्यमदिनेष्यप्यभिहितनीतितः सुधिया भावनीयमिति सूत्रत्रयार्थः ॥ इह प्रथमपौरुष्यामुपल| क्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राक् प्रदर्शितेति तत्परिज्ञानोपायमाह - जिट्ठामूले आसाढसावणे छहि अंगुलेहि पडिलेहा । अट्ठहि बिइयतियंमी तइए दस अट्ठहि चउत्थे ॥ १६ ॥
जासूत्रम् । ज्येष्ठामूल इति ज्येष्ठे, आषाढश्च श्रावणश्चाषाढश्रावणं तत्र, कोऽर्थः ? – ज्येष्ठे आषाढे श्रावणे च पङ्गिरङ्गुलैः प्रत्यहं प्रागुपदिष्टपौरुषीमाने प्रक्षिप्तैरिति चेोत्तरत्र (च) गम्यते, प्रतिलेखेति प्रक्रमात्प्रतिलेखनाकालः, एवं | तावदेकस्मिंस्त्रिके, तथाऽष्टभिरङ्गुलैरिति सर्वत्रानुवर्त्तते द्वितीयत्रिके भाद्रपदाश्वयुक्तार्त्तिकलक्षणे प्रतिलेखनाकालः, तथा
Jain Education International
For Personal & Private Use Only
सामाचा
र्यध्ययनं.
२६
॥५३७ ॥
www.jainelibrary.org