________________
उत्तराध्य.
बृहद्वृत्तिः
॥५३६॥
मेव भाण्डकं ततस्तदिव धर्मद्रविणोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्षाकल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा सामाचाच ततो गुरुं पृच्छेत् , शेषं प्राग्वत् , उपलक्षणं चैतद्-यतः सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वकं प्रष्टव्या एव |
यध्ययनं. DIगुरव इति, एवं च पृष्ट्वा यत्कर्त्तव्यं तदाह-वैयावृत्त्ये 'नियुक्तेन' व्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम् , 'अगि
लायउ'त्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेतियावत , स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपःकर्मप्रधानत्वादस्य, खाध्यायोऽग्लान्यैव कर्तव्य इति प्रक्रम इति सूत्रत्रयार्थः ॥ इत्थं सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद्दुरुपारतत्र्यस्य तचाभिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुजा भिक्खू वियक्खणो। तओ उत्तरगुणे कुजा, दिणभागेसु चउसुवि ॥११॥ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई । तइयाए भिक्खायरियं, पुणो चउत्थीइ सज्झायं ॥१२॥
सूत्रद्वयं स्पष्टमेव, नवरं चतुरो भागान कुर्याद् बुद्धत्युपस्कारः, 'तत' इति चतुर्भागकरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया खाध्यायादींस्तत्कालोचितान 'कुर्याद' विदध्यात्, कदिनभागे कमुत्तरगुणं कुर्यादित्याहप्रथमां पौरुषी 'स्वाध्यायं' वाचनादिकं, सूत्रपौरुषीत्वादस्याः, कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवत्त्येते,
॥५३६॥ द्वितीयां प्रक्रमात्पौरुषी ध्यानं 'झियायइत्ति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातनां कर्यात, इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org