________________
-924SRSRSRSRS
पुब्विल्लंमि चउभागे, आइमि समुट्टिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं ॥८॥ पुच्छिज्जा |पंजलिउडो, किं कायव्वं मए इहं। इच्छं निओइ भंते, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायब्वमगिलायओ । सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे ॥१०॥ _ 'पुविलंमि'त्ति पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं || किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्धा नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबद्धे किञ्चिदूननभश्चतुर्भागे यदादित्यः समुदेति तदा, पादोनपौरुष्यामित्युक्तं भवति, भाण्डकं' पतगृहाधुपकरणं 'प्रतिलेख्य सामयिकपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च 'वन्दित्वा च' नमस्कृत्य 'ततः' इति प्रतिलेखनानन्तरं 'गुरुम्' | आचार्यादिकं, किमित्याह-'पृच्छेतू' पर्यनुयुञ्जीत प्रक्रमाद्रुमेव 'पंजलिउड'त्ति प्राग्वत्कृतप्राञ्जलिः, यथा-किं 'कर्त्त
व्यम्' अनुष्ठेयं 'मये'त्यात्मनिर्देशः 'इह' अस्मिन् समये इति गम्यते, कदाचिद्रवो मन्येरन्-खाध्यायवैयावृहत्तयोरन्यतरस्मिन्नेवास्य नियोगे वान्छेत्यतो ब्रूयातू-'इच्छामि णियोइउंति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्मा|भिरात्मानमिति शेषः 'भंतेत्ति भदन्त ! 'वेयावचे'त्ति वैयावृत्त्ये-ग्लानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झा
ए'त्ति आर्षत्वात्स्वाध्याये वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवैयावृत्त्य|| विधानसम्भवात्, यद्वा पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते इव समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्ड
**%*%*%*%**%
***
*
%*%
dain Education International
For Personal & Private Use Only
www.jainelibrary.org