________________
वा खकरणपरकरणे उपलक्षणमिति-उच्छासनिःश्वासौ विहाय सर्वकार्येष्वपि खपरसम्बन्धिषु गुरवः प्रष्टव्या अतः। सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छेत्युच्यते, तथा च नियुक्तिकृता सामान्येनैवावाचि-"ओपुच्छणा तु कजे"त्ति, तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुक्तेन पुनः प्रवृत्तिकाले यद्गुरुप्रच्छनं सा प्रतिपृच्छा, तथा च"पुत्वनिउत्तेण होइ पडिपुच्छ'त्यविशेषेणैवोक्तं, 'छन्दना' उक्तरूपा विधेयेति शेषः, एवमुत्तरत्रापि, 'द्रव्यजातेन' | तथाविधाशनादिद्रव्यविशेषेण प्राग्गृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह-"पुंवगहिएण छंदणं'ति, इच्छालखकीयोऽभिप्रायस्तया करणं-तत्कार्यनिर्वर्त्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवभर्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मचिकीर्षित कार्यमिदमहं करोमीति, अन्वाह च-“अहंगं तुम्भं एयं करेमि 8 कजं तु इच्छाकारेणं"ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति, तथा चान्वाह|"जैइ अन्भत्थिज परं कारणजाए करेज से कोइ । तत्थवि इच्छाकारो ण कप्पइ बलाभिओगो उ ॥१॥" तथा मिथ्येत्यलीकं मिथ्याकरणं मिथ्याकार:-मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दा-जुगुप्सा तस्यां, वितथाचरणे हि धिगिदं मिथ्या मया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरणं तथाकारः-इदमित्थं चैवे
१ आप्रच्छना तु कार्ये । २ पूर्वनियुक्तेन भवति प्रतिपृच्छा । ३ पूर्वगृहीतेन छन्दना । ४ अहं युष्माकमेतत् करोमि कार्य विच्छाकारेण *||५ यद्यभ्यर्थयति परं कारणजाते कुर्यात्तस्य कश्चित् । तत्रापि इच्छाकारो न कल्पते एव बलाभियोगः ॥ १॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org